कुम्भकर्णादिरक्षोऽग्य्रप्रासादावृतमुत्तमम्।
सुगुप्तं रावणगृहं विशन्तं नौमि मारुतिम्॥
#जय_श्रीराम #जय_बजरंगबली 🚩
#JaiShriRam #JaiBajrangbali 🚩
🙏
ज्यौत्स्न्यां निश्यतिरम्येषु हर्म्येषु जनकात्मजाम्।
मार्गमाणमदृष्ट्वा तां विषण्णं नौमि मारुतिम्॥
#जय_श्रीराम #जय_बजरंगबली 🚩
#JaiShriRam #JaiBajrangbali 🚩
🙏
लङ्कयाऽधृष्यवाममुष्टिघातावघूर्णया।
उक्त्वाऽऽयतिमनुज्ञातं सोत्साहं नौमि मारुतिम्॥
#जय_श्रीराम #जय_बजरंगबली 🚩
#JaiShriRam #JaiBajrangbali 🚩
🙏
मैनाकसुरसासिंहीरतिलङ्घ्याम्बुधेस्तटे।
पृषदंशाल्पकाकारं तिष्ठन्तं नौमि मारुतिम्॥
#जय_श्रीराम #जय_बजरंगबली 🚩
#JaiShriRam #JaiBajrangbali 🚩
🙏
जाम्बवत्स्मारितबलं सागरोल्लङ्घनोत्सुकम्।
स्मरतां स्फूर्तिदं दीनरक्षकं नौमि मारुतिम्॥
#जय_श्रीराम #जय_बजरंगबली 🚩
#JaiShriRam #JaiBajrangbali 🚩
🙏